|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.111. अध्यायः 111
Mahabharata - Vana Parva - Chapter Topics
युधिष्ठिरेण कौशिकीतीरे ऋश्यशृङ्गाश्रमगमनम् ॥ 1 ॥
लोमशेन युधिष्ठिरंप्रति विभाण्डकान्मृग्यामृश्यशृङ्गोत्पत्तिकथनम् ॥ 2 ॥
लोमपादेनानावृष्टिनिवृत्तये ऋश्यशृङ्गानयनं चोदिताभिर्वेश्याभिस्तद्वनगमनम् ॥ 3 ॥
Mahabharata - Vana Parva - Chapter Text
लोमश उवाच। 3-111-0x(2063)(20340)
एषा देवनदी पुण्या कौशिकी भरतर्षभ।
विश्वामित्राश्रमो रम्य एष चात्र प्रकाशते ॥ 3-111-1(20341)
आश्रमश्चैव पुण्याख्यः काश्यपस्य महात्मनः।
ऋश्यशृङ्गः सुतो यस् तपस्वी संयतेन्द्रियः ॥ 3-111-2(20342)
तपसो यः प्रभावेन वर्षयामास वासवम्।
अनावृष्ठ्यां भयाद्यस्य ववर्ष बलवृत्रहा ॥ 3-111-3(20343)
मृग्यां जातः स तेजस्वी काश्यपस्य सुतः प्रभुः।
विषये लोमपादस्य यश्चकाराद्भुतं महत् ॥ 3-111-4(20344)
निर्वर्तितेषु सस्येषु यस्मै शान्तां ददौ नृपः।
लोमपादो दुहितरं सावित्रीं सविता यथा ॥ 3-111-5(20345)
युधिष्ठिर उवाच। 3-111-6x(2064)
ऋश्यशृङ्गः कथं मृग्यामुत्पन्नः काश्यपात्मजः।
विरुद्धयोनिसंसर्गः कथं च तपसा युतः ॥ 3-111-6(20346)
किमर्थं च भयाच्छक्रस्तस्य बालस्य धीमतः।
अनावृष्ट्यां प्रवृत्तायां ववर्ष बलवृत्रहा ॥ 3-111-7(20347)
कथंरूपा च सा शान्ता राजपुत्री पतिव्रता।
लोभयामास या चेतो मृगभूस्य तस्य वै ॥ 3-111-8(20348)
लोमपादश्च राजर्षिर्यदाऽश्रूयत धार्मिकः।
कथं वै विषये तस्य नावर्षत्पाकशासनः ॥ 3-111-9(20349)
एतन्मे भगवन्सर्वं विस्तरेण यथातथम्।
वक्तुमर्हसि शुश्रूषोर्ऋश्यशृङ्गस् चेष्टितम् ॥ 3-111-10(20350)
लोमश उवाच। 3-111-11x(2065)
विभाण्डकस्य ब्रह्मर्षेस्तपसा भावितात्मनः।
अमोघवीर्यस्य सतः प्रजापतिसमद्युतेः ॥ 3-111-11(20351)
शृणु पुत्रो यथा जात ऋश्यशृङ्गः प्रतापवान्।
महाह्रदे महातेजा बालः स्थविरसंभतः ॥ 3-111-12(20352)
महाह्रदं समासाद्य काश्यपस्तपसि स्थितः।
दीर्घकालं रिश्रान्त ऋषिर्देवर्षिसंमितः ॥ 3-111-13(20353)
तस्य रेतः प्रचस्कन्द दृष्ट्वाऽप्सरसमुर्वशीम्।
अप्सूपस्पृशतो राजन्मृगी तच्चापिबत्तदा।
सह तोयेन तृषिता गर्भिणी चाभवत्ततः ॥ 3-111-14(20354)
सा पुरोक्ता भगवता ब्रह्मणा लोककर्तृणा।
देवकन्या मृगी भूत्वा मुनिं सूय विमोक्ष्यसे ॥ 3-111-15(20355)
अमोघत्वाद्विधेश्चैव भावित्वाद्दैवनिर्मितात्।
तस्यां मृग्यां समभवत्तस्व पुत्रो महानृषिः।
ऋश्यशृङ्गस्तपोनित्यो वन एवाभ्यवर्धत ॥ 3-111-16(20356)
तस्य शृङ्गं शिरसि वै राजन्नासीन्महात्मनः।
तेनर्श्यशृङ्ग इत्येवं तदा स प्रथितोऽभवत् ॥ 3-111-17(20357)
न तेन दृष्टपूर्वोऽन्यः पितुरन्यत्रमानुषः।
तस्मात्तस्य मनो नित्यं ब्रह्मचर्येऽभवन्नृप ॥ 3-111-18(20358)
एतस्मिन्नेव काले तु सखा दशरशस्य वै।
कलोमपाद इतिख्यातो ह्यङ्गानामीश्वरोऽभवत् ॥ 3-111-19(20359)
तेन कामः कृतो मिथ्या ब्राह्मणेभ्य इति श्रुतिः।
`दैवोपहतसत्त्वेन धर्मज्ञेनापि भारत'।
स ब्राह्मणैः परित्यक्तस्तदा भरतसत्तम ॥ 3-111-20(20360)
पुरोहितापचाराच्च तस्य राज्ञो यदच्छया।
न ववर्ष सहस्राक्षस्ततोऽपीड्यन्त वै प्रजाः ॥ 3-111-21(20361)
स ब्राह्मणान्पर्यपृच्छत्तपोयुक्तान्मनीषिणः।
प्रवर्षणे सुरेन्द्रस्य समर्थान्पृथिवीपते ॥ 3-111-22(20362)
कथं प्रवर्षेत्पर्जन्य उपायः परिमृश्यताम्।
तमूचुश्चोदितास्ते तु स्वमतानि मनीषिणः ॥ 3-111-23(20363)
तत्र त्वेको रमुनिवरस्तं राजानमुवाच ह।
कुपितास्तव राजेन्द्र ब्राह्मणा निष्कृतिं चर ॥ 3-111-24(20364)
ऋश्यशृङ्गं मुनिसुतमानयस्व च पार्थिव।
ऐणेयमनभिज्ञं च नारीणामार्जवे रतम् ॥ 3-111-25(20365)
स चेदवतरेद्राजन्विषयं ते महातपाः।
सद्यः प्रवर्षेत्पर्जन्य इति मे नास्ति संशयः ॥ 3-111-26(20366)
एतच्छ्रुत्वा वचो राजन्कृत्वा निष्कृतिमात्मनः।
स गत्वा पुनरागच्छत्प्रसन्नेषु द्विजातिषु ॥ 3-111-27(20367)
राजानमागतं ज्ञात्वा प्रतिसंजगृहुः प्रजाः।
`स च ता प्रतिजग्राह पितेव हितकृत्सदा' ॥ 3-111-28(20368)
ततोऽङ्गपतिराहूय सचिवान्मन्त्रकोविदान्।
ऋश्यशृङ्गागमे यत्नमकरोन्मन्त्रनिश्चये ॥ 3-111-29(20369)
सोऽध्यगच्छदुपायं तु तैरमात्यैः सहाच्युतः।
शास्त्रज्ञैरलमर्थज्ञौर्नीत्यां च परिनिष्ठितैः ॥ 3-111-30(20370)
ततश्चानाययामास वारमुख्या महीपतिः।
वेश्याः सर्वत्रनिष्णातास्ता उवाच स पार्थिवः ॥ 3-111-31(20371)
ऋश्यशृङ्गमृषेः पुत्रमानयध्वमुपायतः।
लोभयित्वाऽभिविश्चास्य विषयं मम शोभनाः ॥ 3-111-32(20372)
ता राजभयभीताश्च शापभीताश्च योषितः।
अशक्यमूचुस्तत्कार्यं विषण्णा गतचेतसः ॥ 3-111-33(20373)
तत्र त्वेका जरद्योषा राजानमिदमब्रवीत्।
प्रयतिष्ये महाराज तमानेतुं तपोधनम् ॥ 3-111-34(20374)
अभिप्रेतांस्तु मे कामांस्त्वमनुज्ञातुमर्हसि।
ततः शक्ष्याम्यानयितुमृश्यशृङ्गमृषेः सुतम् ॥ 3-111-35(20375)
तस्याः सर्वमभिप्रेतमन्वजानात्स पार्थिवः।
धनं च प्रददौ भूरि रत्नानि विविधानि च ॥ 3-111-36(20376)
ततो रूपेण सपन्ना वयसा च महीपते।
स्त्रिय आदाय काश्चित्सा जगाम वनमञ्जसा ॥ 3-111-37(20377)
इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि एकादशाधिकशततमोऽध्यायः ॥ 111 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-111-2 काश्यपस्य विभाण्कस्य ॥ 3-111-3 हर्षयामास वासवमिति ध. पाठः ॥ 3-111-10 शुस्रूषोर्मे इति संबन्धः ॥ 3-111-15 सूय प्रसूय ॥ 3-111-16 विधेः विधिवाक्यस्य दैवनिर्मिताद्धेतोः भावित्वात् अपरिहार्यत्वाच्च ॥ 3-111-19 अङ्गानां देशानाम् ॥ 3-111-20 मिथ्याकृतः मया तुभ्यं दातुं किमपि न प्रतिश्रुतमित्यपलापं कृतवानित्यर्थः ॥ 3-111-24 निष्कृतिं प्रायश्चित्तम् ॥ 3-111-25 मुनिसुतमाह्वयस्वचेति क. पाठः ॥ 3-111-31 सर्वत्र परवञ्चनादौ निष्णाताः कुशलाः ॥ 3-111-34 जरद्योषा वृद्धास्त्री ॥ 3-111-36 अन्वजानात् अजुज्ञातवान् ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|